क्षियो धातोः दीर्घादुत्तरस्य निष्थातकारस्य नकारादेशो भवति। क्षीणाः क्लोशाः। क्षीणः जाल्मः। क्षीणः तपस्वी। क्षियः निष्ठायाम् अण्यदर्थे
६।४।६०, वा आक्रोशादैन्ययोः
६।४।६१ इति दीर्घत्वं भवति।
दीर्घातिति किम्? अक्षितमसि मामेक्षेष्ठाः। अक्षितम् इति क्तप्रत्ययो भावे, भावश्च ण्यदर्थः इति दीर्घाभावः। ह्रस्वस्य अपि हि धात्वनुकरणस्य इह इयङा निर्देशः। क्षियः निष्थायाम् अण्यदर्थे
६।४।६० इत्यत्र दीर्घग्रहणं क्रियते। विपराभ्यां जेः
१।३।१९ इत्येवम् आदौ तु धातुत्वम् अनुकार्यगतं सदप्यविवक्षितत्वाद् जिरुपसामान्यानुकरणं द्रष्टव्यम्।
"क्षियः" इति। "क्षि क्षये" (धा।पा।२३६), "क्षि निवासगत्योः" (धा।पा।१४०७) इति द्वयोरपि ग्रहणम्(); विशेषानुपादानात्()। "क्षीणाअः क्लेशाः" इति। "क्तोऽधिकरणे" च" (३।४।
७६) इत्यादिनाऽकर्मकत्वात्? कत्र्तरि निष्ठा, "निष्ठायामण्यदर्थे"
६।४।६० इति दीर्घः। "क्षीणो जाल्मः, क्षीणस्तपस्वी" इत्यादि। "वाऽऽक्रोशदैभ्ययोः"
६।४।६१ इति।
ननु च "क्षियः" इति निर्देशादेव दीर्घस्य ग्रहणं विज्ञायते,
तत्? किं दीर्घग्रहणेन? यदि ह्यस्वस्येवं ग्रहणं स्यात्(),
एवं सति परत्वात्? "घेर्ङिति" (८।३।
१११) इति गुणे कृते क्षेरिति निर्देशः स्यात्()? इत्यत आह--"ह्यस्वस्यापि हि" इत्यादि। यदि नियोगतो दीर्घस्यैव धात्वनुकरणस्येयङा निर्देशः स्यात्(), ततोऽस्मान्निर्देशाद्दीर्घस्येदं ग्रहणमिति विज्ञायते। न च दीर्घस्यैवेयङा निर्वेशो भवति। तथा हि ह्यस्वान्तस्यासौ दृष्टः क्षियः। "निष्ठायामण्यदर्थे"
६।४।६० इत्यत्रावसितं ह्यस्वान्तस्थेदमनुकर्णम्(),
न दीर्घान्तस्येति? उच्यते; यथाभूतस्यैवानुकर्तुयुक्तम्()। ह्यस्वान्तस्य च दीर्घत्वं विधेयम्()। अतस्तस्यैवानुकरणमिदमिति विज्ञायते। यदि तर्हि ह्यस्वान्तस्यापि धात्वनुकरणस्येयङा निर्देशो भवति, "विपराभ्यां जेः"
१।३।१९, "विभाषा चेः" (७।३।
५८) इत्येवमादावपि कस्मान्न भवति? इह "विपराभ्यां जेरित्येवमादौ" इत्यादि। अत्रासङ्कल्पमित्यतदध्याहार्यम्()। धात्वनुकरणस्य हि "प्रकृतिवदनुकरणं भवति" (व्या।प।११३) इतीयङा निर्देशो भवति।
धात्वनुकरणं च किं भवितुमर्हति येन धातावनुकार्येव स्थितम्()? धातुत्वं क्रियावाचित्वलक्षणं विवक्ष्यते। "विपराभ्यां जेः"
१।३।१९ इत्येवमादौ त्वनुकार्यगतं धातुत्वं सदप्यववक्षितत्वादसङ्कल्पम्()। तस्मान्नात्र धात्वनुकरणम्()। अपि तु ङीप्रभृतेः क्रियावाचिनश्च तत्सादृश्यशब्दान्तरस्य ङीत्येवमादेर्यद्रूपसामान्यमर्थशून्यं तदनुकरणं द्रष्टव्यम्()। तस्मादधात्वनुकरणत्वान्न भवतीयङादेश इत्यभिप्रायः। यदि तर्हि धात्वनुकरण स्यात्(), प्रकृतिवदनुकरण भवतीति, एवं सत्यधातो
१।२।४५ इति प्रातिपदिकसंज्ञाप्रतिषेधोऽपि स्यात्(),
ततश्च विभक्तिर्नोपपद्यते? वत्करणेनानुकार्येणार्थेणार्थनार्थवत्त्वस्याश्रयात्? प्रातिपदिकसंज्ञा भविष्यतीत्यदोषः॥
क्षियो दीर्घात्। दीर्घादितिक्षियो विशेषमं। तदाह--दीर्घात्क्षिय इति। दीर्घान्तादित्यर्थः। निष्ठातस्य न इति। "रदाभ्या"मित्यतस्तदनुवृत्तेरिति भावः। क्षीणवानिति। क्षिधातोः कर्तरि क्तवतुः, "निष्ठायामण्यदर्थे" इति दीर्घः, तकारस्य नत्वम्, षात्परत्वाण्णः। क्षितः कामो मयेति। क्षपित इत्यर्थः। "क्षि क्षये" इत्यस्मादन्तर्भावितण्यर्थात्कर्मणि क्तः। भावे तु क्षितं कामेनेत्युदाहार्यम्। अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते क्ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः। दीर्घान्तत्वाऽभावात् "क्षियो दीर्घा"दिति नत्वं न। श्र्युकः कितीति। "श्रित" इत्यादौ इण्निषेधस्मारकमिदम्। क्षुतैति। "टु क्षु शब्दे" अस्मात्क्तः। ननु ऊर्णुत इति कथम्, अनेकाच्कत्वेन "श्र्युक"इति निषेधस्याऽप्रवृत्तेरित्यत आह-- ऊर्णोतेर्नुवदिति। वार्तिकमिदम्।
क्षियो। क्षि क्षये, क्षि निवासगत्योः, द्वयोरपि ग्रहणम्। क्षितः काम इति। अन्तर्भावितण्यर्थत्वेन सकर्मकत्वात्कर्मणि क्तः। एतच्च "अक्षितोतसनेदिम"मिति मन्त्रव्याख्यायां माधवग्रन्थे स्पष्टम्। भावे तु क्षितं कामेनेत्याद्युदाहरणीयम्। इण्निषेधसूत्रं स्मारयति--श्र्युकः कितीति। क्षुत इति। टुक्षु शब्दे। नुत इति। णु स्तुतौ। वृत इति। वृङ् संभक्तौ,वृञ् रणे।